तयोरपाङ्गप्रतिसारितानि क्रियासमापत्तिषु १कातराणि।
ह्नीयन्त्रणामानशिरे मनोज्ञामन्योन्यलोलानि विलोचनानि॥ १४३॥
म्ला/ग्लानभ्रूपुटपक्ष्मा शिथिलसा क्लमप्रविष्टतारा मन्दसञ्चारिणी च ग्लाना (नाशा. ८.६७); यथा—
किं वर्तिर(?) परिम्लानरक्तोत्पलप X X X।
X X X X X X मा नेत्रपरम्परा॥ १४४॥
किञ्चिच्चलाऽस्थिरा किञ्चिदुन्नता तिर्यगायता।
मूढा चकिततारा च शङ्किता (नाशा. ८.६८)। यथा—
अपेतव्याहारं धुतविविधशिल्पव्यतिकरं करस्पर्शारम्भप्रगलितदुकूलान्तशयनम्।
मुहुर्बद्धोत्कम्पं दिशि दिशि मुहुः प्रोरितदृशो— रहल्यासुत्राम्णोः क्षणिकमिह तत् सङ्गतमभूत्॥ १४५॥
विषादविस्तीर्णपुटा, पर्यस्तान्ता निमेषिणी, कि़ञ्चिन्निष्टब्धतारा च विषण्णा यथा— (उरा. ३.१६)