{आगच्छन्नपि न दृष्टः प्रातः प्रसर—त्पल्लवारुणच्छायः।
मज्जनताम्रयोर्मदस्तथा मदताम्रयोर्लोचनयोरमर्षः॥}
संस्थिततारका विकसिता समत्त्वा च दृप्ता (ना.शा.८.६०), यथा— (उराच. ६.१९)
दृष्टिस्तृणीकृतजगत्त्रयसत्त्वसारा धीरोद्धता नमयतीव गतिर्धरित्रीम्।
कौमारकेऽपि गिरिवद् गुरुतां दधानो वीरो रसः किमयमेत्युत दर्प एव॥ १३८॥
(भयाञ्चितदृष्टेर्लक्षणोदाहरणांशस्त्रुटितः) (ना.शा.८.६१)
विस्मयोद्वृत्ततारा नष्टोभयपुटाञ्चिता विकसिता च विस्मिता(नाशा. ८.६३); यथा— (मामा. १.२८)
अलसलुलितमुग्धस्निग्धनिस्स्पन्दमन्दैरधिकविकसदन्तर्विस्मयस्मेरतारैः।
हृदयमशरणं मे पक्ष्मलाक्ष्याः कटाक्षैरपहृतमपविद्धं पीतमुन्मूलितं च॥ १३९॥
समतारा समपुटा निष्कम्पा (शूनन्यदर्शिनी) बाह्यार्थाग्राहिणी (क्षामा/श्यामा) शून्या (ना.शा. ८.६५) यथा— (विसा. १.४१)