कथयति त्वयि सस्मितमालतीवलितलोलकटाक्षपराहतम्।
वरदपङ्कजमुल्लसितत्रपालिधुरदृष्टि सखी नमयिष्यति॥ १३५॥
किञ्चित्संरुद्धतारम्भा अर्धस्रस्तोत्तरपुटा सास्रमन्दसञ्चारिणी च दीना (ना. ८.५६);
इतः प्रत्यादेशात् स्वजनमनुगन्तुं व्यवसिता गृहे तिष्ठेत्युच्चैर्वदति गुरुशिष्ये गुरुसमे।
पुनर्दृष्टिं बाष्पप्रसरकलुषामर्पितवती मयि क्रूरे यत्, तत् सविषमिव शल्यं दहति माम्॥ १३६॥
'रूक्षा स्थिरोद्वृत्तपुटा निष्टब्धोद्वृत्ततारका' भ्रुकुटीकुटिला च क्रुद्धा (नाशा. ८. ५७);
एंतो वि ण सच्चविओ गोसे पसरंतपल्लवारुणच्छाओ।
मज्जणतंबेसु मओ, तह सम/मअतंबेसबु लोअणेसु अमरिसो॥ १३७॥