जनः पुण्यैर्यायाज्जलधिजलभावं जलमुच— स्तथाऽवस्थं चैनं निदधतु शुभैः शुक्तिवदने।
ततस्तां श्रेयोभिः परिणतिमसौ विन्दति यया रुचिं तन्वन् पीनस्तनि ! हृदि तवायं विलुठति॥ १४२॥
शुभे ! कोऽयं वृद्धो, गृहपरिवृढः, किं तव पिता ? न, मे भर्ता रात्रौ व्यवहितदृगत्यन्तबधिरः।
हु हुं हुं श्रान्तोऽहं शिशियिषुरिहौवापवरके क्व यामिन्यां यासि, स्वपिहि ननु निर्दंशमशके॥ १४३॥
११. माल्यविधिर्यथा—(किराता. ८.३७)
प्रियेण संगृह्य विपक्षसन्निधावुपाहितां वक्षसि पीवरस्तने।
स्रजं न काचिद् विजहौ जलाविलां वसन्ति हि प्रेम्णि गुणा न वस्तुनि॥ १४४॥
१२. गन्धयुक्तिर्यथा—(कुसं. १.९)