अवाप्तकन्यातुलया सत्यवत्या समागतः।
विमुक्तचिन्तया रेजे राजा राजीवलोचनः॥ १३८॥
मयेन निर्मितां लङ्कां लब्ध्वा मन्दोदरीमपि।
रेमे मूर्तो दशाग्रीवलक्ष्मीमिव विभीषणः॥ १३९॥
सावज्ञाः पतिपादयोर्धृतगुरुव्रीडा गुरूणां ततौ ? सोन्माथा ममतामुखे स्थित/स्मित—कृतावज्ञा सखीसंसदि।
शक्राभ्यर्थनया कथञ्चन पुनः प्रत्यागताया गृहे तारायास्तरलं स्खलन्ति गगने गर्भालसा दृष्टयः॥ १४०॥