यद् भ्रूलते तरलिते यदुदङ्गुलीकः पाणिः पुरो यदपि चक्षुरलब्धलक्ष्यम्।
उत्सूत्रिताधरदलं च यदास्यमस्या— स्तत्कार्य/काव्यकर्मणि निषक्तमवैमि चेतः॥ १४०॥
प्रस्पन्दपक्ष्मा नात्यर्थमुकुला च मलिना (नाशा. ८.६४); यथा—
देव्याः सन्ततबाष्पवारिपटलच्छन्नेक्षणायाः करं चूडारत्नसमर्पणाय बहुशो यातं वृथैवान्यतः।
भ्राम्यन्तं पतदश्रुपूरितदृशो हस्तं ममाप्येकतो दृष्ट्वा तत्र निशाचरैरपि निजः स्वामी चिरं निन्दितः॥ १४१॥
श्रमप्रम्लापितपुटा क्षामाऽस्ताञ्चितलोचना सन्ना पतिततारका च श्रान्ता (नाशा. ८.६७); यथा—
क्लमोदयम्लापितपत्रसम्पुटा पुटान्तसं(पातित)—घर्मबिन्दवः।
दृशो भृशोन्मीलितरक्तराजयो (मधौ युवत्यो नु लता ल—)१ सन्ति॥ १४२॥
किञ्चिदञ्चितपक्ष्माग्रा पतितोर्ध्वपुटा त्रपाऽधोगततारा च सलज्जा (नाशा. ८.६८)। यथा— (रघु. ७.२३, कुसं. ७.७५)