भोजशृङ्गारप्रकाशः - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

भोजशृङ्गारप्रकाशः

Enable Parallel


Showing 461 to 470 of 543 verses
त्रिचतुरेषु पदेषु किरीटिना लुलितमौलि मदादिव चस्खले॥ १३५॥

गर्वादयश्च सत्यपि गर्वादिहेतौ जात्यादिगुणसमूहे तस्य नोत्पद्यन्ते; धैर्याधारतायाः तत्प्रत्यनीकगुणयोगित्वात्। तत्र—

१. गर्वानुत्पत्तिः यथा— (शाकु. ५.१७)

भवन्ति नम्रास्तरवः फलोद्गमैर्नवाम्बुभिर्भूरिविलम्बिनो घनाः।

अनुद्धताः सत्पुरुषाः समृद्धिभिः स्वभाव एवैष परोपकारिणाम्॥ १३६॥

२. मदानुत्पत्तिर्मद्यपानप्रतिषेधेनैव सिद्धा।

३. अमर्षानुत्पत्तिर्यथा—(रघु. ४.६४)

अपनीतशिरस्त्राणाः शेषास्तं शरणं ययुः।

प्रणिपातप्रतीकारः संरम्भो हि महात्मनाम्॥ १३७॥

४.असूयानुत्पत्तिर्यथा—

Showing 461 to 470 of 543 verses