कनिष्ठस्य यथा—(किराता. १३.३०)
अत दीर्घतरं तमः प्रवेक्ष्यन् सहसा रुग्णरयः स सम्भ्रमेण।
निपतन्तमिवोष्णरश्मिमुर्व्यां वलयीभूतधनुर्धरां च मेने॥ १२५॥
२४. मध्यमस्य गर्वो यथा—(मवीच. ३.३७)
धर्म्ये कर्मणि/धर्मे ब्रह्मणि कार्मुके च भगवानीशो हि मे शासिता सर्वक्षत्रिनिबर्हणस्य विनयं कुर्युः कथं क्षत्रियाः ?।
सम्बन्धस्तु वसिष्ठमिश्रविषये मान्यो जरावानिति स्पर्धायामधिकः, समश्च धनुषि ज्ञाने च नास्त्येव मे॥ १२६॥
कनिष्ठस्य यथा—(बारा. १.६०)
परिषदियमृषीणामेष वृद्धो नरेन्द्रः कथमिव तदमुष्मिन् मैथिलीलालसोऽपि।
निजभुजबलदृप्यद््वीरसर्गे समाजे हठहरणविनोदं राक्षसेन्द्रः करोतु॥ १२७॥