द्विषद्द्वेषापरक्ताङ्गसङ्गिनीः स्वेदविप्रुषः॥ १२१॥
कदलतलनिषण्णं सद्मनि श्रान्तिहेतो— र्व्यजनि जनकपुत्रीवाससः पल्लवने।
अगणितनिजखेदः साधु संवाहनाभिः परिचरति च हृष्यन् लक्ष्मणो रामभद्रम्॥ १२२॥
कनिष्ठस्य यथा—(मवीच. ५.४)
विस्रंसयन्ती परिगृह्य पक्षौ जाता ममाप्युत्पतनश्रमार्तिः।
शक्तिर्हि कालस्य विभोर्जराख्या शक्त्यन्तराणां प्रतिबन्धहेतुः॥ १२३॥
२३. मध्यमस्य मूर्छा यथा—(मवीच. ४.५५)
प्राणाः प्रयान्ति परितस्तमसाऽऽवृतोऽस्मि मर्मच्छिदो मम रुजः प्रसरन्त्यपूर्वाः।
अक्ष्णोर्मुखेन्दुमुपधेहि गिरं च देहि हा वत्स ! मय्यकरउणः सहसैव मा भूः॥ १२४॥