१ . . . . . . . . . . . . . .
मनोवाग्बुद्धिजा ये च ये चारम्भाः शरीरजाः।
अनुभावाः समेऽप्येते ते यथावत् प्रदर्शिताः॥ १४९॥
भावाः सञ्चारिणो ये च स्थायिनो ये च सात्त्विकाः।
सविभावानुभावास्ते श्रृङ्गारस्य प्रकाशकाः॥ १५०॥
प्रकृतिभवमितोऽभिमानसंज्ञं सममनुभावविभावसत्त्ववर्गः।
स्वमवसरमुपेयिवानुपास्ते नृपतिमिवाधिकृतोनुजीविवर्गः॥ १५१॥
इति श्रीमहाराजाधिराजश्रीभोजदेवविरचिते श्रृङ्गारप्रकाशे अनुभावप्रकाशो नाम
रेवाप्रसादेन सनातनेन च्छिन्नोऽप्यसौ यः समपादि कोषः।