कलिलमम्बु सदैव पयोनिधेः प्रकृतिरेव सतामविषादिता॥ १५१॥
१८. वैवर्ण्यानुत्पत्तिर्यथा—(शाकु. ६.६)
प्रत्यादिष्टविशेषमण्डनविधिर्वामप्रकोष्ठे श्लथं बिभ्रत् काञ्चनमेकमेव वलयं श्वासोपरक्ताधरः।
चिन्ताजागरणप्रका/तान्तनयनस्तेजोगुणादात्मनः संस्कारोल्लिखितो महामणिरिव क्षीणोऽपि नालक्ष्यते॥ १५२॥
१९. दैन्यानुत्पत्तिर्यथा—(नीति. ८९)
विपदि महतां धैर्यध्वंसं यदीक्षितुमीहसे विरम विरमायासादस्माद् दुरध्यवसायतः।
अयि हतविधे! कल्पापायव्यपेतनिजक्रमाः कुलशिखरिणः क्षुद्रा नैते नवा जलराशयः॥ १५३॥
२०. स्वरभेदानुत्पत्तिर्यथा—(रघु. ३.४३)
शतैस्तमक्ष्णामनिमेषवृत्तिभिः हरिं विदित्वा हरिभिश्च वाजिभिः।
अवोचदेनं गगनस्पृशा रघुः स्वरेण धीरेण निवर्तयन्निव॥ १५४॥