भोजशृङ्गारप्रकाशः - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

भोजशृङ्गारप्रकाशः

Enable Parallel


Showing 521 to 530 of 543 verses
२१. आवेगानुत्पत्तिर्यथा—(माघः २.७९)

आरभन्तेऽल्पमेवाज्ञाः कामं व्यग्रा भवन्ति च। महारम्भाः कृतधियस्तिष्ठन्ति च निराकुलाः॥ १५५॥

२२. मोहानुत्पत्तिर्यथा—

मुह्यन्ति नापत्सु, वदन्ति सत्यं, पृच्छन्ति वृद्धान्, सुकृतं, स्मरन्ति।

भवन्त्यमायाकपटाः किलैते सन्तः सतोषा न तु दीर्घरोषाः॥ १५६॥

२३. जाड्यानुत्पत्तिर्यथा—(रघु. ९.६३)

व्याघ्रानभीरभिमुखोत्पत्तितान् गुहाभ्यः फुल्लासनाग्रविटपानिव वायुरुग्णान्। शिक्षाविशेषलघुहस्ततया निमेषात् तूणीचकार शरपूरितवक्त्ररन्ध्रान्॥ १५७॥

२४. निर्वेदानुत्पत्तिर्यथा—(रघु. २.२४)

तामन्तिकन्यस्तबलिप्रदीपामन्वास्य गोप्‍ता गृहिणीसहायः।

क्रमेण सुप्‍तामनु संविवेश सुप्‍तोत्थितां प्रातरुदन्वतिष्ठत्॥ १५८॥