आर्द्राः स्रजो मलयजोदकमच्छमेकं वासश्च वासवरिपुर्ममृषेऽलसाङ्गः।
सञ्चिक्लिशे कलितरुद्रनिकेतनाद्रिर्भारेण तत्क्षणमसौ मणिभूषणानाम्॥ १४५॥
३४. मध्यमस्य भयं यथा—(मामा. ५.२०)
नादस्तावद् विकलकुररीकूजितस्निग्धतार— श्चित्ताकर्षी परिचित इव श्रोत्रसंवादमेति।
अन्तर्भिन्नं भ्रमति हृदयं विह्वलत्यङ्गमङ्गं देहस्तम्भः स्खलयति गतिं, कः प्रकारः? किमेतत्?॥ १४६॥
कनिष्ठस्य यथा—(कुसं. ३.५१)
स्मरस्तथाभूतमयुग्मनेत्रं पश्यन्नदूरान्मनसाऽप्यधृष्यम्।
नालक्षयत् साध्वससन्नहस्तः स्रस्तं शरं चापमपि स्वहस्तात्॥ १४७॥