४३. उत्तमस्य विषादो यथा—(मामा. ४.७)
सुह्वदिव प्रकटय्य सुखप्रदां प्रथममेकरसामनुकूलताम्।
पुनरकाण्डविवर्तनदारुणः परिशिनष्टि विधिर्मनसो रुजम्॥ १४५॥
मध्यमस्य यथा—(मामा. ८.१२)
मम हि कुवलयाक्षीं प्रत्यनिष्टैकबुद्धे— रविरतमनुबद्धोत्कम्प एवान्तरात्मा।
स्फुरति च खलु चक्षुर्वाममेतच्च कष्टं वचनमिह भवत्योः सर्वथा हा हतोऽस्मि॥ १४६॥
४४. उत्तमस्य वैवर्ण्यं यथा—(उराच. ३.२२)
नवकुवलयस्निग्धैरङ्गैर्ददन्नयनोत्सवं सततमपि ते स्वेच्छादृश्यो नवो नव एव यः।
विकलकरणः पाण्डुः सोऽयं शुचा परिदुर्बलः कथमपि स इत्युन्नेतव्यस्तथाऽपि दृशो प्रियः॥ १४७॥