'अलमलममुना ते साहसेनातिमात्रम्' इत्यादि॥ १५२॥
४७. उत्तमस्य मोहो यथा—(उराच. १.३५)
'विनिश्चेतुं शक्यो न सुखमिति वा दुःखमिति वा' इत्यादि॥ १५३॥
मध्यमस्य यथा—(मामा. १.४४)
प्रसरति परिमाथी कोऽप्ययं देहभाज— स्तिरयति करणानां ग्राहकत्वं प्रमोहः।
रणरणकविवृद्धिं विभ्रमावर्तमानं ज्वलति हृदयमन्तस्तन्मयत्वं च धत्ते॥ १५४॥
४८. उत्तमस्य जाड्यं यथा—(पृ.॰ ८७७)
स्नाता तिष्ठति कुन्तलेश्वरसुता, वारोऽङ्गराजस्वसु— र्द्यूते रात्रिरियं जिता कमलया, देवी प्रसाद्याऽद्य च।
इत्यन्तःपुरसुन्दरीः प्रति मया विज्ञाय विज्ञापिते देवेनाप्रतिपत्तिमूढमनसा द्वित्राः स्थिता नाडिकाः॥ १५५॥
मध्यमस्य यथा—(मामा. १.३३)