परिच्छेदातीतः सकलवचनानामविषयः पुनर्जन्मन्यस्मिन्ननुभवपथं यो न गतवान्।
विवेकप्रध्वंसादुपचितमहामोहगहनो विकारः कोऽप्यन्तर्जडयति च तापं च कुरुते॥ १५६॥
स एष कामश्रृङ्गारस्तदेतत् काव्यदैवतम्।
तदेतद्, विश्वसर्वस्वं तदेतज्जन्मनः फलम्॥ १५७॥
ललितो नायकः, सर्वा योषिद्, वृत्तिस्तु कैशिकी।
प्रवृत्तिर्दाक्षिणात्येह वैदर्भी काव्यपद्धतिः॥ १५८॥
जन्मान्तरानुभववासनया सुखार्थमिच्छाप्रवृत्तिविषयेन्द्रियसम्प्रयोगैः।
सम्प्रत्ययानुभवनूतनवासनाभिमाना१/रात्माभिलाषसुखविस्मरणानि कामः॥ १५९॥
इति श्रीमहाराजाधिराजश्रीभोजदेवविरचिते श्रृङ्गारप्रकाशे कामश्रृङ्गारप्रकाशो नाम
॥ विंशः प्रकाशः समाप्तः॥ २०॥