तस्य प्रसह्य हृदयं किल शोकशङ्कुः प्लक्षप्ररोह इव सौधतलं बिभेद।
प्राणान्तहेतुमपि तं भिषजामसाध्यं लाभं प्रियानुगमने त्वरया स मेने॥ १५४॥
१. रघु. ६.९३ इति राघवः HOS.
कनिष्ठस्य यथा—(मामा. १.४२)
अभिहन्ति हन्त कथमेष माधवं सुकुमारकायमनवग्रहः स्मरः।
अचिरेण वैकृतविवर्तदारुणः कलभं कठोर इव कूटपाकलः॥ १५५॥१
३९. मध्यमस्योन्मादो यथा—(विक्रमो. ४.१)
नवजलधरः सन्नद्धोऽयं न दृप्तनिशाचरः सुरधनुरिदं दूराकृष्टं न नाम शरासनम्।
अयमपि पटुर्धारासारो न बाणपरम्परा कनकनिकषस्निग्धा विद्युत् प्रिया न ममोर्वशी॥ १५६॥
कनिष्ठस्य यथा—(मामा. ९.२७)