भोजशृङ्गारप्रकाशः - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

भोजशृङ्गारप्रकाशः

Enable Parallel


Showing 551 to 560 of 638 verses
तस्य प्रसह्य हृदयं किल शोकशङ्कुः प्लक्षप्ररोह इव सौधतलं बिभेद।

प्राणान्तहेतुमपि तं भिषजामसाध्यं लाभं प्रियानुगमने त्वरया स मेने॥ १५४॥

१. रघु. ६.९३ इति राघवः HOS.

कनिष्ठस्य यथा—(मामा. १.४२)

अभिहन्ति हन्त कथमेष माधवं सुकुमारकायमनवग्रहः स्मरः।

अचिरेण वैकृतविवर्तदारुणः कलभं कठोर इव कूटपाकलः॥ १५५॥१

३९. मध्यमस्योन्मादो यथा—(विक्रमो. ४.१)

नवजलधरः सन्नद्धोऽयं न दृप्‍तनिशाचरः सुरधनुरिदं दूराकृष्टं न नाम शरासनम्।

अयमपि पटुर्धारासारो न बाणपरम्परा कनकनिकषस्‍निग्धा विद्युत् प्रिया न ममोर्वशी॥ १५६॥

कनिष्ठस्य यथा—(मामा. ९.२७)

Showing 551 to 560 of 638 verses