प्राप वर्णविकृतिं च भार्गवो वृष्टिधौत इव वासवध्वजः॥ १६०॥
कनिष्ठस्य यथा—(रघु. ६.६७)
सञ्चारिणी दीपशिखेव रात्रौ यं यं व्यतीयाय पतिंवरा सा।
नरेन्द्रमार्गाट्ट इव प्रपेदे विवर्णभावं स स भूमिपालः॥ १६१॥
४२. मध्यमस्य दैन्यं यथा—(मामा. ९.४२)
भ्रमय जलदानम्भोगर्भान्, प्रमोदय कोकिलान् कलय शिखिनः केकोत्कण्ठान् कठोरय केतकान्।
विरहिणि जने मूर्च्छां लब्ध्वा विनोदयति व्यथा— मकरुण! पुनः संज्ञाव्याधिं विधाय किमीहसे?॥ १६२॥
कनिष्ठस्य यथा—(मामा. ४.६)
दया वा स्नेहो वा भगवति! निजेऽस्मिन् शिशुजने भवत्याः संसाराद् विरतमपि चित्तं द्रवयति।