अतश्च प्रव्रज्या सुलभसमयाचारविमुखः प्रसक्तस्ते यत्नः प्रभवति पुनर्दैवमपरम्॥ १६३॥
४३. मध्यमस्य स्वरभेदो यथा—(रघु. ८.४३)
विललाप स बाष्पगद्गदं सहजामप्यवधूय धीरताम्।
अभितप्तमयोऽपि मार्दवं भजते, कैव कथा शरीरिषु?॥ १६४॥
कनिष्ठस्य यथा—(रघु. ९.७६)
तेनावतीर्य तुरगात् प्रथितान्वयेन पृष्टान्वयः स जलकुम्भनिषण्णदेहः।
तस्मै द्विजेतरतपस्विसुतं स्खलद्भिरात्मानमक्षरपदैः कथयांबभूव॥ १६५॥
सम्प्रत्येव हि गोग्रहे यदभवत् तत् तावदाकर्ण्यता— मेतत् ते हृदयं स्पृशामि यदि वा साक्षी तवैवात्मजः।
एकः पूर्वमुदायुधैः स बहुभिर्दृष्टस्ततोऽनन्तरं यावन्तो वयमाहवप्रणयिनस्तावन्त एवार्जुनाः॥ १६६॥