नवेषु लोध्रप्रसवेषु कान्तिर्दृशः कुरङ्गेषु गतं गजेषु।
लतासु नम्रत्वमिति प्रमथ्य व्यक्तं विभक्ता विपिने प्रिया मे॥ १५७॥
यत् त्वन्नेत्रसमानकान्ति सलिले मग्नं तदिन्दीवरं मेघैरन्तरितः प्रिये! तव मुखच्छायानुकारी शशी।
येऽपि त्वद्गमनानुसारिगतयस्ते राजहंसा गता— स्त्वत्सादृश्यविनोदमात्रमपि मे दैवेन न क्षम्यते॥ १५८॥
कनिष्ठस्य यथा—(मामा. ४.३)
चिरादाशातन्तुस्त्रुटतु बिसिनीसूत्रभिदुरो महानाधिर्व्याधिर्निरवधिरिदानीं प्रसरतु।
प्रतिष्ठामव्याजां व्रजतु मयि पारिप्लवधुरा, विधिः स्वास्थ्यं धत्तां, भवतु कृतकृत्यश्च मदनः॥ १५९॥
४१. मध्यमस्य वैवर्ण्यं यथा—(रघु. ११. ८०)
तेन भूमिनिमितैककोटि तत् कार्मुकं च बलिनाऽधिरोपितम्।