कनिष्ठस्य यथा—(मवीच. ३.४३)
ब्रह्मक्षत्त्रसमाजमाक्षिपसि यद् वत्से च घोराशय— स्तेनातिक्रमणेन दुःखयसि नः पाल्योऽपि सम्बन्धतः।
आतस्त्वां प्रति कोपकम्पतरलः शापोदकं दक्षिणः प्राक्संस्कारवशेन चापमितरः पाणिर्ममान्विष्यति॥ १५१॥
३७. मध्यमस्य स्तम्भो यथा—(रघु. २.३१)
सव्येतरस्तस्य भुजः प्रहर्तुर्नखप्रभारूषितकङ्कपत्त्रे।
सक्ताङ्गुलिः सायकपुङ्ख एव चित्रार्पितारम्भ इवावतस्थे॥ १५२॥
कनिष्ठस्य यथा—(मामा. १.३५)
वारं वारं तिरयति दृशावुद्वमन् बाष्पपूर— स्तत्सङ्कल्पोपहितजडिम स्तम्भमभ्येति गात्रम्।
सद्यः स्विद्यन्नयमविरतोत्कम्पलोलाङ्गुलीकः पाणिर्लेखाविधिषु नितरां वर्तते, किं करोमि?॥ १५३॥
३८. मध्यमस्य व्याधिर्यथा—(रघु. ८.९३)१