अज्ज वि हरी चमक्कइ जं कह कह वि ण मंदरेण दलिआइ।
चंदकलाकंदलकोमलाइ लच्छिए अंगाए॥ १४८॥
{अद्यापि हरिश्चमत्कृतो यत् कथं कथमपि न मन्दरेण दलितानि।
चन्द्रकलाकन्दलकोमलानि लक्षयित्वा लक्ष्म्या अङ्गानि॥}
कनिष्ठस्य यथा—(किराता. १.२४)
कथाप्रसङ्गेन जनैरुदाहृतादनुस्मृताखण्डलसूनुविक्रमः।
तवाभिधानाद् व्यथते नताननः सुदुस्सहान्मन्त्रपदादिवोरगः॥ १४९॥
३६. मध्यमस्य कम्पो यथा—(उराच. ५.३५)
क्रोधेनोद्धतधूमसंकुलकरः सर्वाङ्गजो वेपथुः किञ्चित्कोकनदच्छदस्य सदृशे नेत्रे स्वयं रज्यतः।
वक्त्रे कान्तिमिदं च वक्त्रमनयोर्भङ्गेन भीमभ्रुवो— श्चन्द्रस्योद्भटलाञ्छनस्य कमलस्योद्भ्रान्तभृङ्गस्य च॥ १५०॥