वंशलक्ष्मीमनुद्धृत्य समुच्छेदेन विद्विषाम्।
निर्वाणमपि मन्येऽहमन्तरायं जयश्रियः॥ १५९॥
तदेतद् धर्मशृङ्गारे धीरोदात्तस्य चेष्टितम्।
मनोवाक्कायचेष्टाभिः स्पष्टमेवोपवर्णितम्॥ १६०॥
पाञ्चाली भारती प्राच्या रीतिवृत्तिप्रवृत्तयः।
स्वकीया नायिका चास्मिन् धीरोदात्तश्च नायकः॥ १६१॥
स एष धर्मद्रुमबालपल्लवो लवोच्चयः सूनृतमुक्ति/सूक्तिसम्पदाम्।
पदं दधानः श्रुतिमार्गगोचरे चिराय या वाऽनभिसंमतं सताम्॥ १६२॥
इति श्रीमहाराजाधिराजश्रीभोजदेवविरचिते शृङ्गारप्रकाशे धर्मशृङ्गारप्रकाशनो नाम