भोजशृङ्गारप्रकाशः - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

भोजशृङ्गारप्रकाशः

Enable Parallel


Showing 591 to 600 of 638 verses
कनिष्ठस्य यथा—(उराच. ५.१)

नन्वेतत् त्वरितसुमन्त्रनुद्यमानप्रोद‍्वल्गत्प्रजवितवाजिना रथेन।

उत्खातप्रचलितकोविदारकेतुः श्रुत्वाऽथ प्रथनमुपैति चन्द्रकेतुः॥ १६७॥

४५. मध्यमस्य मोहो यथा—(उरा. २.२३)

वत्सस्याभयवारिधेः प्रतिभयं शङ्के कथं राक्षसात्? त्रस्तश्चैष मुनिर्विरौति; मनसोऽप्यस्त्येव मे सम्भ्रमः।

मा हासीर्जनकात्मजामिति गुरुस्‍नेहान्मुनेर्याचते प्रस्थातुं न च गन्तुमाकुलतया मूढस्य मे निश्चयः॥ १६८॥

कनिष्ठस्य यथा—(मामा. ९.८)

न यत्र प्रत्याशामनुपतति नो वा रहयति प्रतिक्षिप्‍तं चेतः प्रविशति च मोहान्धतमसम्।

अकिञ्चित् कुर्वाणाः पशव इव तस्यां वयमहो विधातुर्वामत्वाद् विपदि परिवर्तामह इमे॥ १६९॥

४६. मध्यमस्य जाड्यं यथा—(उराच. ३.४१)

Showing 591 to 600 of 638 verses