कनिष्ठस्य यथा—(उराच. ५.१)
नन्वेतत् त्वरितसुमन्त्रनुद्यमानप्रोद्वल्गत्प्रजवितवाजिना रथेन।
उत्खातप्रचलितकोविदारकेतुः श्रुत्वाऽथ प्रथनमुपैति चन्द्रकेतुः॥ १६७॥
४५. मध्यमस्य मोहो यथा—(उरा. २.२३)
वत्सस्याभयवारिधेः प्रतिभयं शङ्के कथं राक्षसात्? त्रस्तश्चैष मुनिर्विरौति; मनसोऽप्यस्त्येव मे सम्भ्रमः।
मा हासीर्जनकात्मजामिति गुरुस्नेहान्मुनेर्याचते प्रस्थातुं न च गन्तुमाकुलतया मूढस्य मे निश्चयः॥ १६८॥
कनिष्ठस्य यथा—(मामा. ९.८)
न यत्र प्रत्याशामनुपतति नो वा रहयति प्रतिक्षिप्तं चेतः प्रविशति च मोहान्धतमसम्।
अकिञ्चित् कुर्वाणाः पशव इव तस्यां वयमहो विधातुर्वामत्वाद् विपदि परिवर्तामह इमे॥ १६९॥
४६. मध्यमस्य जाड्यं यथा—(उराच. ३.४१)