भोजशृङ्गारप्रकाशः - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

भोजशृङ्गारप्रकाशः

Enable Parallel


Showing 601 to 610 of 638 verses
करपल्लवः स तस्याः सहसैव जडात्मनः परिभ्रष्टः।

परिकम्पिनः प्रकम्पी करान्मम स्विद्यतः स्विद्यन्॥ १७०॥

कनिष्ठस्य यथा—(उरा. ३.२७)

पिहितनयनो बाष्पाम्भोभिर्मुहुः स्रुतिसंभृतै— र्धनुषि विनमन्मध्ये खिन्नां निधाय तनुं ततः।

शिथिलचरणोद्धारः कृच्छ्रात् पदात् पदमावहन् कथमयमहो चिन्ताशून्यो न याति न तिष्ठति॥ १७१॥

शमावहित्थधृतिनिर्वेदाश्चानयोर्नोत्पद्यन्ते।

४७. शमानुत्पादो मध्यमस्य यथा—(मवीच. ३.९)

यतो विमुक्तेरपि मानरक्षणं प्रियं विशेषेण तथा हि यस्य मे।

सनाभयो यूयमहं च कर्कशः शरासनज्याकिणलाञ्छनो भुजः॥ १७२॥

कनिष्ठस्य यथा—(किराता. ११.६९)