४९. मध्यमस्य धृत्यनुत्पत्तिर्यथा—(काव्यादर्शे २.१६५)
चित्रमाक्रान्तविश्वोऽपि विक्रमस्ते न तृप्यति।
कुतो वा दृश्यते तृप्तिरुदीर्णस्य हविर्भुजः॥ १७६॥
कनिष्ठस्य यथा—(माघ. २.३२)
सम्पदा सुस्थितम्मन्यो भवति स्वल्पयाऽपि यः।
कृतकृत्यो विधिर्मन्ये न वर्धयति तस्य ताम्॥ १७७॥
धीरोद्धतस्य वृत्तेऽस्मिन्नर्थशृङ्गारसंश्रये।
मया लोकप्रसिद्धेऽपि दिङ्मात्रमुपदर्शितम्॥ १७८॥
उद्धतो नायकः, सर्वा स्त्री, प्रवृत्तिस्तु मागधी।
वृत्तिरारभटी चेह गौडीया गीयते गतिः॥ १७९॥