भोजशृङ्गारप्रकाशः - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

भोजशृङ्गारप्रकाशः

Enable Parallel


Showing 611 to 620 of 638 verses
वंशलक्ष्मीमनुद्ध‍ृत्य समुच्छेदेन विद्विषाम्।

निर्वाणमपि मन्येऽहमन्तरायं जयश्रियः॥ १७३॥

४८. अवहित्थानुत्पत्तिर्मध्यमस्य यथा—

कण्डूतिव्याजसाचीकृतगलसरणिर्येषु जातो गरुत्मा— नन्तर्माल्यं निलिल्ये किल दयितगुणादिच्छया/दित्सया येषु शेषः।

ये च ध्यानानुबन्धच्छलमुकुलदृशा वेधसा नैव दृष्टा— स्ते लक्ष्मीर्नोदयन्तो निधुवनविधयः पान्तु वो माधवस्य॥ १७४॥

कनिष्ठस्य यथा—(सेब. ११.९)

पच्छाअंतस्स वि से बहुसो हिअअठ्ठिओ पिआण वि पुरओ।

समअं दससु वि मुहेसु सीआमइओ पअट्टइ समुल्लावो॥ १७५॥

(प्रच्छादयतोऽप्यस्य बहुशो हृदयस्थितः प्रियाणामपि पुरतः।

समकं दशस्वपि मुखेषु सीतमयः प्रवर्तते समुल्लापः॥)