भोजशृङ्गारप्रकाशः - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

भोजशृङ्गारप्रकाशः

Enable Parallel


Showing 501 to 510 of 638 verses
चापाचार्यः पशुपतिरभूत् कार्त्तिकेयो विजेयः शस्त्रव्यस्तः सदनमुदधिर्भूरियं हन्तकारः।

अस्त्येवैतत् किमु कृतवता रेणुकाकण्ठबाधां बद्धस्पर्धस्तव परशुना लज्जते चन्द्रहासः॥ १३८॥

कनिष्ठस्य यथा—(वेस. २.२५)

हस्ताकृष्टविलोलकेशवसना दुश्शासनेनाज्ञया पाञ्चाली मम राजचक्रमभितो गौर्गौरिति व्याहृता।

तस्मिन्नम्ब! ततज्यकार्मुकधरो नासीत् पृथानन्दनो यूनः क्षत्रियवंशजस्य कृतिनः क्रोधास्पदं किं न तत्?॥ १३९॥

३१. मध्यमस्य विस्मयो यथा—(मवीच. २.३९)

अप्राकृतस्य चरितातिशयस्य भागैरत्यद्‍भुतैर्मम हृतस्य तथाऽप्यनास्था।

कोऽप्येष वीरशिशुकाकृतिरप्रमेयो माहात्म्यसारसमुदायमयः पदार्थः॥ १४०॥

कनिष्ठस्य यथा—(मवीच. १.५४)

दोर्लीलाञ्चितचन्द्रशेखरधनुर्दण्डावभङ्गोद्यत— ष्टङ्कारध्वनिरार्यबालचरितप्रस्तावनाडिण्डिमः।

Showing 501 to 510 of 638 verses