प्रणयसखीसलीलपरिहासरसाधिगतै— र्ललितशिरीषपुष्पहननैरपि ताम्यति यत्।
वपुषि वधाय तत्र त्व शस्त्रमुपक्षिपतः पततु शिरस्यकाण्डयमदण्ड इवैष भुजः॥ १५५॥
क्व त्वत्प्रियः क्व च तपस्विजनस्य हन्ता कन्याविटः पतिरसौ परिरक्षतु त्वाम्।
श्येनावपातचकिता वनवर्तिकेव किं चेष्टसे ननु चिरात् कबलीकृताऽसि॥ १५६॥
कामाद्यभिषङ्गातिशयादसम्बद्धप्रलाप उन्मादः। तस्य
एह्येहि वत्स रघुनन्दन ! पूर्णचन्द्र चुम्बामि मूर्धनि चिराय परिष्वजे त्वाम्।
आरोप्य वा हृदि दिवानिशमुद्वहामि वन्देऽथवा चरणपुष्करकद्वयं ते॥ १५७॥