भ्रमय जलदानम्भोगर्भान् प्रमोदय कोकिलान्/चातकान् कलय शिखिनः केकोत्कण्ठान् कठोरय केतकान्।
विरहिणि जने मूर्च्छां लब्ध्वा विनोदयति व्यथा— मकरुण ! पुनस्संज्ञाव्याधिं विहा/धाय किमीहसे॥ १६१॥
भयानुरागादिजन्मा मनश्शरीराभिषङ्गो व्याधिः। तस्य
यदिन्दावानन्दं प्रणयिनि जने वा न भजते व्यनक्त्यन्तस्तापं (तदयमति)धीरोऽपि विषमम्।
प्रियङ्गुश्यामाङ्गप्रकृतिरपि वा (चा)पाण्डुमधुरं वपुः क्षामं क्षामं वहति रमणीयञ्च(श्च) भवति॥ १६२॥
मनोरोगस्तीव्रो विषमिव विसर्पन्नविरतं प्रमाथी निर्धूमं जवलति विधुतः पावक इव।
हिनस्ति प्रत्यङ्गं जवर इव गरीयानित इतो न मां त्रातुं तातः प्रभवति, नचाऽम्बा, न भवती॥ १६३॥