निवृत्तवृत्तोरुपयोधरक्लमः प्रवृत्तिनिर्ह्रादिविभूषणारवः।
नितम्बिनीनां भृशमादधे धृतिं नभःप्रायाणादवनौ परिक्रमः॥ १७६॥
दैवादिभिस्संरम्भविघातो विषादः। तस्य
हेलोल्लोलक्षुभितकरुणोज्जृम्भणस्तम्भनार्थं यो यो यत्नः कथमपि समाधीयते तन्नमन्तः (तं तमन्तः ?)।
भित्त्वा भित्त्वा प्रसरति बलात् कोऽपि चेतोविकार— स्तोयस्येवाप्रतिहतरवः सैकतं सेतुमोघः॥ १७७॥
अनुबन्धो यथा—(उराच. ३.४५)
व्यर्थं यत्र कपीन्द्रसख्यमपि मे, क्लेशः कपीनां वृथा प्रज्ञा जाम्बवतो न यत्र, न गतिः पुत्रस्य वायोरपि।