इतिकर्तव्यतायामनालोको मोहः। तस्य
न यत्र प्रत्याशामनुपतति नो वा रहयति प्रतिक्षिप्तं चेतः प्रविशति च मोहान्धतमसम्।
अकिञ्चित्कुर्वाणाः पशव इव तस्यां वयमहो विधातुर्वामत्वाद् विपदि परिवर्तामह इमे॥ १८२॥
अनुबन्धो यथा—(उराच. ३.१७)
पिहितनयनो बाष्पाम्भोभिर्मुहुस्त्वतिसम्भृतै— र्धनुषि विनमन्मध्ये स्विन्नां निधाय तनुं ततः।
शिथिलचरणोद्धारः कृच्छ्रात् पदात् पदमावहन् कथमयमहो ! चिन्ताशून्यो न याति न तिष्ठति॥ १८३॥
प्रकर्षो यथा—(उराच. १.३५)
विनिश्चेतुं शक्यो न सुखमिति वा दुःखमिति वा प्रमादो निद्रा वा किमु विषविसर्पः किमु मदः।