तव स्पर्शे स्पर्शे मम हि परिमूढेन्द्रियगणो विकारश्चैतन्यं भ्रमयति च संमीलयति च॥ १८४॥
सम्पर्को यथा—(उराच. २.२३)
वत्सस्याभयवारिधेः प्रतिभयं शङ्के कुतो राक्षसात् त्रस्तश्चैष मुनिर्विरौति मनसोऽप्यस्त्येव मे सम्भ्रमः।
मा हासीज्जनकात्मजामिति गुरुस्नेहान्मुहुर्याचते न स्थातुं न च गन्तुमाकुलतया मूढस्य मे निश्चयः॥ १८५॥
ता राघवं दृष्टिभिरापिबन्त्यो नार्यो न जग्मुर्विषयान्तराणि।
तह हि सर्वेन्द्रियवृतिरासां सर्वात्मना चक्षुरिव प्रविष्टा॥ १८६॥
इष्टविरहादिभिर्मनोवैधुर्यं शोकः। तस्य