कृष्यां दहन्नपि खलु क्षितिमिन्धनेद्धो बीजप्ररोहजननीं ज्वलनः करोति॥ १९०॥
तस्य प्रसह्य हृदयं किल शोकशंकुः प्लक्षप्ररोह इह सौधतलं बबाधे।
प्राणन्तहेतुमपि तं भिषजामसाध्यं लाभं प्रियानुगमनत्वरया स मेने॥ १९१॥
सत्त्वत्यागादनुत्कर्षो दैन्यम्। तस्य
नृपस्य वर्णाश्रमपालनं यत् स एव धर्मो मनुना प्रणीतः।
निर्वासिताऽप्येवमतस्त्वयाऽहं तपस्विसामान्यमवेक्षणीया॥ १९२॥
अनुबन्धो यथा—(शाकु. ४.१७)