हा हा देवि ! स्फुटति हृदयं स्रंसते देहबन्धः शून्यं मन्ये जगदविरलज्वालमन्तर्ज्वलामि।
सीदन्नन्धे तमसि विधुरो मज्जतीवान्तरात्मा विष्वङ्मोहः स्थगयति कथं मन्दभाग्यः करोमि॥ १८७॥
नवपल्लवसंस्तरेऽपि ते मृदु दूयेत यदङ्गभर्पितम्।
तदिदं विसहिष्यते कथं तव वामोरु ! चिताधिरोहणम्॥ १८८॥
प्रकर्षो यथा—(मवीच. ४.५५)
प्राणाः प्रयान्ति परितस्तमसावृतेऽस्मिन् मर्मच्छिदो मम रुजः प्रसरन्त्यपपूर्वाः।
अक्ष्णोर्मुखेन्दुमुपधेहि गिरं च देहि हा पुत्र ! मय्यकरुणः सहसैव मा भूः॥ १८९॥
शापोऽप्यदृष्टतनयाननपद्मशोभे सानुग्रहो भगवता मयि पातितोऽयम्।