अस्मान् साधु विचिन्त्य संयमधनानुच्चैःकुलं चात्मन— स्त्वय्यस्याः कथमप्यबान्धवकृतां स्नेहप्रवृत्तिं च ताम्।
सामान्यप्रतिपत्तिपूर्वकमियं दारेषु दृश्या त्वया भाग्यायत्तमतः परं न खलु तद् वाच्यं वधूबन्धूभिः॥ १९३॥
दायादा न ययोर्बलेन गणितास्तौ द्रोणभीष्मौ हतौ कर्णस्यात्मजमग्रतः शमयतो भीतं जगत् फल्गुनात्।
वत्सानां निधनेन मे (रिपु)रसौ शेषप्रतिज्ञस्त्वया मानं वैरिषु मुञ्च तात ! पितरावन्धाविमौ पालय॥ १९४॥
सम्पर्कौ यथा—(वेसं. ५.१३)
अन्धोऽनुभूतशतपुत्रविपत्तिदुःखः शोच्यां दशामुपगतः स तु भार्ययाऽहम्।
तस्मिन्नशेषितसुहृद्गुरुबन्धुवर्गे दुर्योधने(ऽपि हि कृतो) भवता निराशः॥
माने नेच्छति वारयत्युपशमे क्ष्मामालिखन्त्यां हि मां स्वातन्त्र्ये परिवृत्य तिष्ठति करौ व्याधूय धैर्ये गते।