तृष्णे ! त्वामनुबध्नता फलमियत् प्राप्तं मया यावता यः स्पृष्टो न पदा स एव चरणौ स्प्रष्टुं न संमन्यते॥ १९६॥
विषादादिजन्म कान्तेरन्यथात्वं वैवर्ण्यम्। तस्य
उज्ज्वलालोकया स्निग्धा त्वया त्यक्ता न राजते।
मलीमसमुखी वर्तिः प्रदीपशिखया यथा॥ १९७॥
सञ्चारिणी दीपशिखेव रात्रौ यं यं व्यतीयाय पतिंवरा सा।
नरेन्द्रमार्गाट्ट इव प्रपेदे विवर्णभावं स स भूमिपालः॥ १९८॥