प्रतीकाराशया मनोव्याकुलताऽऽवेगः। तस्य
प्रेक्षणीयकमिव क्षणमासन् ह्रीतभङ्गुरविलोचनपाताः।
सम्भ्रमद्रुतगृहीतदुकूलच्छाद्यमानवपुषः सुरतान्ताः॥ २०२॥
अनुबन्धो यथा—(माघ. १०.८३)
अप्रभूतमतनीयसि तन्वी काञ्चिधाम्नि पिहितैकरतोरु।
क्षौममाकुलकरा विचकर्ष क्रान्तपल्लवमभीष्टतमेन॥ २०३॥
शून्या दिशः सपदि वीक्ष्य शुचा वराकी मृत्योर्मुखं विशति वा शमयन्निराशाः।