अज्जाए णवणहक्खअ—णिरिक्खणे गुरुअ—जोव्वणुत्तुंगं।
पडिमागअ—णिअ—णअणुप्पलच्चिअं होइ थणवठ्ठं॥ २०३॥
(आर्याया नवनखक्षितनिरीक्षणे गुरुकयौवनोत्तुङ्गम्।
प्रतिमागतनिजनयनोत्पलार्चितं भवति स्तनपृष्ठम्॥)
मध्यमा धीरा मध्या यथा—(गास. ४.२७)
इंसं जणेंति वड्ढेंति वम्महं विप्पिअं सहावेंति।
विरहे ण देंति मरिउं अहो गुणा तस्स बहुमग्गा॥ २०४॥
(ईर्ष्यां जनयन्ति वर्धयन्ति मन्मथं विप्रियं साहयन्ति।
विरहे न ददति मर्तुमहो गुणास्तस्य बहुमार्गाः॥)
मध्यमा अधीरमध्या यथा—(गौडवहो ६९०, गास. ९३३)