तं सिद्धकुमारं पेच्छिऊण एएहि सहि ! अणज्जेहिं।
अविणअमग्गं हअ—लोअणेहिं णीअह्मि, किं भणिमो?॥ २०७॥
(तं सिद्धकुमारं प्रेक्ष्य एताभ्यां सखि ! अनार्याभ्याम्।
अविनयमार्गं हतलोचनाभ्यां नीताऽस्मि, किं भणामि॥)
मध्यमा धीरोढा मध्या यथा— (गास. २.६०)
अच्छोडिअ—वत्थद्धंत—पत्थिए! मंथरं तुमं वच्च।
चिंतेसि थणहराआसिअस्स मज्झस्स वि ण भंगं॥ २०८॥
(बलादाकृष्टवस्त्रार्धान्तप्रस्थिते! मन्थरं त्वं व्रज।
चिन्तयसि स्तनभरायासितस्य मध्यस्यापि न भङ्गम्?॥)
मध्यमा धीराऽनूढा मध्या यथा—(लीलावती ३२३)