उत्पक्ष्मणोर्नयनयोरुपरुद्धवृत्तिं बाष्पं कुरु स्थिरतया विहतानुबन्धम्।
अस्मिन्नलक्षितनतोन्नतभूमिभागे मार्गे पदानि खलु ते विषमीभवन्ति॥ २०७॥
अनुबन्धो यथा—(विक्रमो. ५.१५)
किं सुन्दरि ! प्ररुदितासि ममोपपन्ने वंशस्थितेरधिगमान्महति प्रमोदे।
पीनोन्नतस्तननिपातिभिरानयन्ती मुक्तावलीविरचनां पुनरुक्तमस्रै॥ २०८॥
ततः कैरप्युक्ते परिणयविधौ काष्ठमुनिभिः पुराणैरातङ्कग्लपितहृदयेन क्षितिभृता।
*मोहः(/स्नेहः) द्विरुपात्तः उद्देशे (द्र. पृ. ६१४) विना वाचं नैतत् क्षममिति विधायाननमधः पतद्वाष्पाम्भोभिर्लिखितमिव दत्तं प्रतिवचः॥ २०९॥
सम्पर्को यथा—(उराच. १.२९)
अयं तावद् बाष्पस्त्रटित इव मुक्तामणिसरो विसर्पन् धाराभिर्लुठति धरणीं जर्झरकणः।