एता मता श्वपचपातकदीपरोगा— दागच्छ X X X परंपरिक्षया वः॥ २०४॥
संपर्को यथा—(रत्ना. ३.१७)
अलमलमतिमात्रं साहसेनामुना ते त्वरितमयि ! विमुञ्च त्वं लतापाशमेनम्।
चलितमिव निरोद्धुं जीवितं जीवितेशे क्षणमिह मम कण्ठे बाहुपाशं निधेहि॥ २०५॥
स च्छिन्नबन्धद्रुतयुग्यशून्यं भग्नाक्षपर्यस्तरथं क्षणेन।
रामापरित्राणविहस्तयोधं सेनानिवेशं तुमुलं चकार॥ २०६॥
दुःखक्रोधाननन्दजं नयनजलमश्रु। तस्य