सहि ! साहसु तेण समं अहं पि किं णिग्गआ पहाअंमि।
अण्ण च्चिअ दीसइ जेण दप्पणे का वि सा सुमुही॥ १९९॥
(सखि ! साधय तेन सममहमपि किं निर्गता प्रभाते।
अन्यैव दृश्यते येन दर्पणे काऽपि सा सुमुखी॥)
समानप्रेमाणं जनमसुलभं प्रार्थितवतो विधौ वामारम्भे मम समुचितैषा परिणतिः।
तथाऽप्यस्मिन् दानश्रवणसमयेऽस्याः प्रविगलत्— प्रभं प्रातश्चन्द्रद्युति वदनमन्तर्दहति माम्॥ २००॥
अनुगमो यथा—(किराता. १०.६३)
स्वयं संराध्येशं शतमखमखण्डेन तपसा परोच्छित्त्या लभ्यामभिलषति लक्ष्मीं हरिसुते।
मनोभिः सावेगैः प्रणयविहतिध्वस्तरुचयः सगन्धर्वा धाम त्रिदशवनिताः स्वं प्रतिययुः॥ २०१॥