निरुद्धोऽप्यावेगः स्फुरदधरनासापुटतया परेषामुन्नेयो भवति च भराध्यातहृदयः॥ २१०॥
अकृतकबलारम्भैर्वक्त्रैर्भयस्थगितेक्षणैः किमपि वलितग्रीवं स्थित्वा मुहुर्मृगपङ्क्तयः।
गगनमसकृत् पश्यन्त्येतास्तथाश्रुघनैर्मुखैः— र्निपतति यथा शृङ्गाग्रेभ्यो भ्रमन्नयनोदकम्॥ २११॥
सर्वेन्द्रियास्तमयः प्रलयः। तस्य
तीव्राभिषङ्गप्रभवेण वृत्तिं मोहेन संस्तम्भयतेन्द्रियाणाम्।
अज्ञातभर्तृव्यसना मुहूर्तं कृतोपकारेव रतिर्बभूव॥ २१२॥
अनुबन्धो यथा—(रघु. १४.५४)