ततोऽभिषङ्गानिलविप्रविद्धा प्रभ्रश्यमानाभरणप्रसूना।
स्वमूर्तिलाभप्रकृतिं धरित्रीं लतेव सीता सहसा जगाम॥ २१३॥
प्रकर्षो यथा—(वेसं. ४.१०)
पर्याप्तनेत्रमचिरोद्गतचन्द्रकान्तमुद्भिद्यमाननवयौवनरम्यचिह्नम्।
प्राणापहारिपरिवर्तितदृष्टि दृष्टं कर्णेन तत् कथमिवाननपङ्कजं ते॥ २१४॥
रघुर्भृशं वक्षसि तेन ताडितः पपात भूमौ सह सैनिकाश्रुभिः।
मुहूर्तमात्रादवधूय च व्यथां सहोत्थितः सैनिकहर्षनिस्वनैः॥ २१५॥
अनुगमो यथा—(विक्रमो. १.९)
आविर्भूते शशिनि तमसा मुच्यमानेव रात्रिः नैशस्यार्चिर्हुतभुज इव च्छिन्नभूयिष्ठधूमा।