रम्भोरु! संहर भयं क्षमते विकारमुत्कम्पिनः स्तनभरस्य न मध्यभागः।
इत्थं त्वयैव कथितप्रणयप्रसादः सङ्कल्पनिर्वृतिषु संस्तुत एष दासः॥ २११॥
मध्यमा प्रगल्भा यथा—(गास. १.२४)
पिअविरहो अप्पिअदंसणं गरुआइं दो वि दुक्खाइं।
जीए तुमं कारिज्जेसि तीए णमो आहिजाईए॥ २१२॥
(प्रियविरहोऽप्रियदर्शनं च गुरुके द्वे अपि दुःखे।
यया त्वं कार्यसे तस्यै नम आभिजात्यै॥)
मध्यमा धीरा प्रगल्भा यथा—(अमरुक. ६९)
पुराऽभूदस्माकं तनुरियमभिन्नैव नियतं ततो नु त्वं प्रेयान् वयमपि हताशा प्रियतमाः।
इदानीं नाथस्त्वं वयमपि कलत्रं; किमपरं मयाऽऽप्तं प्राणानां कुलिशकठिनानां फलमिदम्॥ २१३॥