मोहेनान्तर्वरतनुरियं लक्ष्यते मुक्तकल्या गङ्गा रोधःप्रसरकलुषा गृह्णतीव प्रसादम्॥ २१६॥
मनसः क्रियास्वपाटवं जाड्यम्। तस्य
आहारे विरतिः समस्तविषयग्रामे निवृत्तिः परा नासाग्रे नयनं यदेतदपरं यच्चैकनिष्ठं मनः।
मौनं चेदमिदं च शून्यमखिलं यद् विश्वमाभाति ते तद् ब्रूयाः सखि ! योगिनी किमसि भोः किं वा वियोगिन्यसि॥ २१७॥
अनुबन्धो यथा—(महानाटक ५.३)
शिथिलशिथिलं न्यस्य स्वैरं धनुश्शिखरे शिरो नयनसलिलैः कुर्वन् मौर्वीलतामपरामिव।
अहह विकलः श्रुत्वा श्रुत्वा घनस्तनितध्वनिं किमपि किमपि ध्यायन्नार्यो न याति न तिष्ठति॥ २१८॥