रे हस्त ! दक्षिण मृतस्य शिशोर्द्विजस्य जीवातवे विसृज शूद्रमुनौ कृपाणम्।
रामस्य गात्रमसि निर्भरगर्भखिन्नसीताविवासनपटोः करुणा कुतस्ते ?॥ २२२॥
अनुबन्धो यथा—(उराच. १.४९)
विस्रम्भादुरसि निपत्य जातनिद्रामुन्मुच्य प्रियगृहिणीं गृहस्य शोभाम्।
आतङ्कस्फुरितकठोरगर्भगुर्वीं क्रव्याद्भयो बलिमिव दारुणः क्षिपामि॥ २२३॥
प्रकर्षो यथा—(उराच. ३.२६)
त्वं जीवितं त्वमसि मे हृदयं द्वितीयं त्वं कौमुदी नयनयोरमृतं त्वमङ्गे।
इत्यादिभिः प्रियशतैरनुरुध्य मुग्धां तामेव शान्तमथवा किमतः परेण॥ २२४॥
सम्पर्को यथा—(वेसं. ३.१३)