मातर्लक्ष्मि ! भजस्व कंचिदपरं मत्काङ्क्षिणी मा स्म भू— र्भोगेभ्यः स्पृहयालवो तव वशे; का निस्स्पृहाणामसि।
सद्यस्स्यूतपलाशपत्रपुटिकापात्रीपवित्रीकृतैः भिक्षासक्तुभिरेव सम्प्रति वयं वृत्तिं समीहामहे॥ २२८॥
प्रकर्षो यथा—(उराच. ६.३३)
क्व तावानानन्दो निरतिशयविस्रम्भबहुलः क्व तेऽन्योन्यं यत्र क्वचन गहनाः कौतुकरसाः।
सुखे वा दुःखे वा क्व नु खलु तदैक्यं हृदययो— स्तथाप्येष प्राणः स्फुरति न तु तापो विरमति॥ २२९॥
अयं शून्यो ग्रामः सुरसदनमेतच्च पतितं पुरः शुष्का वापी तरुरयमितः शीर्णविटपः।
वयं चैते पान्थाः परिकृशदशाभाग्यगतयः समानैः संयोगः कटुरपि मनो मे रमयति॥ २३०॥