भोजशृङ्गारप्रकाशः - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

भोजशृङ्गारप्रकाशः

Enable Parallel


Showing 801 to 810 of 841 verses
अनुबन्धो यथा—(वैश. ९३)

मातर्लक्ष्मि ! भजस्व कंचिदपरं मत्काङ्‍‌क्षिणी मा स्म भू— र्भोगेभ्यः स्पृहयालवो तव वशे; का निस्स्पृहाणामसि।

सद्यस्स्यूतपलाशपत्रपुटिकापात्रीपवित्रीकृतैः भिक्षासक्‍तुभिरेव सम्प्रति वयं वृत्तिं समीहामहे॥ २२८॥

प्रकर्षो यथा—(उराच. ६.३३)

क्‍व तावानानन्दो निरतिशयविस्रम्भबहुलः क्‍व तेऽन्योन्यं यत्र क्‍वचन गहनाः कौतुकरसाः।

सुखे वा दुःखे वा क्‍व नु खलु तदैक्यं हृदययो— स्तथाप्येष प्राणः स्फुरति न तु तापो विरमति॥ २२९॥

संपर्को यथा—(सूमु. ६)

अयं शून्यो ग्रामः सुरसदनमेतच्‍च पतितं पुरः शुष्का वापी तरुरयमितः शीर्णविटपः।

वयं चैते पान्थाः परिकृशदशाभाग्यगतयः समानैः संयोगः कटुरपि मनो मे रमयति॥ २३०॥

अनुगमो यथा—

Showing 801 to 810 of 841 verses