जरामरणदौर्गत्यव्याधयस्तावदासताम्।
मन्ये जन्मैव धीराणां भूयोभूयस्त्रपाकरम्॥ २३१॥
तत्त्वज्ञानादिभिर्मनःकषायोपरमश्शमः। तस्य
स्थितिः पुण्येऽरण्ये सह परिचयो हन्त हरिणैः फलैर्मूलैर्वृत्तिः प्रतिनदि च तल्पानि दृषदः।
इतीयं सामग्री भवति विरतिं संस्पृहयतां नं वा गेहं वा सदृशमुपशान्तस्य मनसः॥ २३२॥
अवश्यं यातारश्चिरतरमुषित्वाऽपि विषयाः वियोगे को भेदस्त्यजति न जनो यत् स्वयभिमान्।
व्रजन्तः स्वातन्त्र्यात् परमपरितापाय मनसः स्वयं त्यक्ता ह्येते शमसुखमनन्तं विदधति॥ २३३॥